बुद्धिमान्नीतिमान्वाग्मी श्रीमान् शत्रुनिबर्हण:
विपुलांसो महाबाहु: कम्बुग्रीवो महाहनु:
महोरस्को महेष्वासो गूढजत्रुररिन्दमः
आजानुबाहुस्सुशिरास्सुललाटस्सुविक्रमः
समस्समविभक्ताङ्गस्स्निग्धवर्ण: प्रतापवान्
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः
धर्मज्ञस्सत्यसन्धश्च प्रजानां च हिते रतः
यशस्वी ज्ञानसम्पन्नश्शुचिर्वश्यस्समाधिमान्
इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुत:
नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी
इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुत:
नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी
प्रजापतिसमश्श्रीमान् धाता रिपुनिषूदनः
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः
सर्वशास्त्रार्थतत्त्वज्ञस्स्मृतिमान्प्रतिभानवान्
सर्वलोकप्रियस्साधुरदीनात्मा विचक्षणः
सर्वदाभिगतस्सद्भिस्समुद्र इव सिन्धुभिः
आर्यस्सर्वसमश्चैव सदैकप्रियदर्शनः
इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुत:
नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी
सर्वगुणोपेत: कौसल्यानन्दवर्धन:
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः
धनदेन समस्त्यागे सत्ये धर्म इवापरः