ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः
सहायं वरयामास मारीचं नाम राक्षसम्
वार्यमाणस्सुबहुशो मारीचेन स रावणः
न विरोधो बलवता क्षमो रावण तेन ते
अनादृत्य तु तद्वाक्यं रावण: कालचोदित:
जगाम सह मारीचस्तस्याश्रमपदं तदा
तेन मायाविना दूरमपवाह्य नृपात्मजौ
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम्
गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम्
राघवश्शोकसन्तप्तो विललापाकुलेन्द्रिय:
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम्
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह
कबन्धन्नाम रूपेण विकृतं घोरदर्शनम्
तं निहत्य महाबाहुर्ददाह स्वर्गतश्च स:
स चास्य कथयामास शबरीं धर्मचारिणीम्
श्रमणीं धर्मनिपुणामभिगच्छेति राघव
सोऽभ्यगच्छन्महातेजाश्शबरीं शत्रुसूदन:
शबर्या पूजितस्सम्यग्रामो दशरथात्मज:
पम्पातीरे हनुमता सङ्गतो वानरेण ह
हनुमद्वचनाच्चैव सुग्रीवेण समागत: